|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.53. अध्यायः 053
Mahabharata - Vana Parva - Chapter Topics
नलदमयन्तीसंवाद ॥ 1 ॥ नलेनेन्द्रादीन्प्रति दमयन्तीवचननिवेदनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-53-0x(1921)(17895)
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्।
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥ 3-53-1(17896)
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचना।
तत्सर्वं तव विस्रब्धं कुरु प्रणयमीश्वर ॥ 3-53-2(17897)
हंसानां वचनं यत्तु तन्मां दहति पार्थिव।
त्वत्कृते हि मया वीर राजानः सन्निपातिताः ॥ 3-53-3(17898)
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥ 3-53-4(17899)
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥ 3-53-5(17900)
येषामहं लोककृतामीश्वराणां महात्मनाम्।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥ 3-53-6(17901)
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युच्छति।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥ 3-53-7(17902)
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा।
भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै ॥ 3-53-8(17903)
य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः।
हुताशमीशं देवानां का तं न वरयेत्पतिम् ॥ 3-53-9(17904)
यस् दण्डभयात्सर्वे भूतग्रामाः समागताः।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥ 3-53-10(17905)
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम्।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥ 3-53-11(17906)
क्रियतामविशङ्केन मनसा यदि मन्यसे।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥ 3-53-12(17907)
नैषधेनैवमुक्ता सा दमयन्ती बचोऽब्रवीत्।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥ 3-53-13(17908)
देवेभ्योऽहं नमस्कृत् यसर्वेभ्यः पृथिवीपते।
वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते ॥ 3-53-14(17909)
तामुवाच ततो राजा वेषमानां कृताञ्जलिम्।
दौत्येनागत्य कल्याणि नोत्सहे स्वार्थमीप्सितं ॥ 3-53-15(17910)
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥ 3-53-16(17911)
एष धर्मो यदि स्वार्थो ममापि भविता ततः।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥ 3-53-17(17912)
ततो बाष्पाकुलांवाचं दमयन्ती शुचिस्मिता।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥ 3-53-18(17913)
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर।
येन दोषो न भविता तव राजन्कथंचन ॥ 3-53-19(17914)
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥ 3-53-20(17915)
ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥ 3-53-21(17916)
एवमुक्तस्तु वैदर्भ्या नलो राजा विशंपते।
आजगाम पुनस्तत्र यत्र देवाः समागताः ॥ 3-53-22(17917)
तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः।
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥ 3-53-23(17918)
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता।
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥ 3-53-24(17919)
नल उवाच। 3-53-25x(1922)
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्।
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥ 3-53-25(17920)
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः।
ऋते तां पार्तिवसुतां भवतामेव तेजसा ॥ 3-53-26(17921)
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः।
विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः ॥ 3-53-27(17922)
वर्ण्यमानेषु च मया भवत्सु रुचिराननां।
मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः ॥ 3-53-28(17923)
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः।
त्वया सह नरव्याघ्र मम यत्रस्वयंवरः ॥ 3-53-29(17924)
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध।
एवं तव महाबाहो दोषो न भवितेति ह ॥ 3-53-30(17925)
एतावदेव विबुधा यथावृत्तमुपाहृतम्।
मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ 3-53-31(17926)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-53-1 यथाश्रद्धं देवेभ्यो नमस्कृत् प्रणयस्वेति संबन्धः। प्रणयस्व परिणयस्व। मामिति शेषः ॥ 3-53-2 विस्रब्धं सविश्वासं यथास्यात्तथा प्रणयं परिणयनं विवाहम् ॥ 3-53-3 सन्निपातिताः मेलिताः ॥ 3-53-4 मृत्युकारणादिति क. ध. पाठः ॥ 3-53-25 महाकक्ष्यं महान्तं राजद्वारप्रदेशम् ॥ 3-53-31 अतःपरं प्रमाणं तु भवन्तोऽमरसत्तमा इति. क. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|